सूत्रम्
ददातिदधात्योर्विभाषा॥ ३।१।१३९
काशिका-वृत्तिः
ददातिदधात्योर् विभाषा ३।१।१३९
दाञो धाञश्च विभाषा शप्रत्ययो भवति। णस्य अपवादः। ददः, दायः। दधः, धायः। अनुपसर्गातित्येव, प्रदः, प्रधः।
न्यासः
ददातिदधात्योर्विभाषा। , ३।१।१३९
"णस्यापवादः" इति। "श्याद्व्यध"
३।१।१४१ इत्यादिना प्राप्तस्य। कस्य त्वपवादो न भवति; अनुपसर्गादित्यनुवृत्तेः। "ददः,दधः" इति। शे कृते शप्। तस्य जुहोत्यादित्वात् श्लुः, "श्लौ"
६।१।१० इति द्विर्वचनम्, "श्नाभ्यस्तयोरातः"
६।४।११२ इत्याकारलोपः। "दायः" इति। "आतो युक्"
७।३।३३। "प्रदः" इति। "आतश्चोपसर्गे"
३।१।१३६ इति कः। ननु च "दद दाने" (धा।पा।१७), "दध धारणे" (धा।पा।८)- इत्येताभ्यमचि कृते ददो दध इति, दा धा--इत्येताभ्यामपि णे कृते दायो धाय इति भविष्यति,
तत्किमित्यनेन सूत्रेण? नैतदस्ति; अचि हि सति "अच्कावशक्तौ"
६।२।१५६ इत्यन्तोदात्तत्वं स्यात्। शे तु नञ्स्वर एव भवति-- अददः, अदध इति॥
बाल-मनोरमा
ददातिदधात्योर्विभाषा ७१८, ३।१।१३९
ददातिदधात्योर्विभाषा। दाञ्, धाञ्, आभ्यां शो वा स्यात्। ददः दध इति। शः, शप्, श्लुः। "श्लौ" इति द्वित्वम्। आतो लोपः। वक्ष्यमाण इति। "स्याद्व्यदे" त्यनेनेति भावः। प्रदः प्रध इति। "आतश्चोपसर्गे" इति कः।
तत्त्व-बोधिनी
ददातिदधात्योर्विभाषा ५९८, ३।१।१३९
ददातिदधात्योर्विभाषा। ददः दध इति। शे परे "जुहोत्यादिभ्य" इति श्ल, "श्लौ" इति द्वित्वम्। अपित्सार्वदातुकस्य शस्य ङित्त्वात् "आतो लोपः" इत्यालोपः। वक्ष्यमाणो ण इति। "श्याद्व्यधे"ति णप्रत्यये आतो युकि-- दायः धायः। प्रदः प्रध इति। "आतश्चोपसर्गे" इति कः। स्यादेतत्-- दद दाने, दध धारणे, आभ्यामचि ददो दध इति सिद्धम्, दाधाभ्यामादन्तलक्षणे णप्रत्यये दायो धाय इत्यपि, ततश्चेदं सूत्रं व्यर्थमिति चेत्। सत्यम्। स्वरार्थमिदं सूत्रम्। अददः अदधः। इह हि अव्ययपूर्वपदप्रकृतिस्वर इष्यते। अजन्तत्वे तु "अच्कावशक्ता" वित्यन्तोदात्तत्वं स्यात्।